हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Aranya Kanda Sarga 25 – अरण्यकाण्ड पञ्चविंशः सर्गः (२५)


॥ खरसैन्यावमर्दः ॥

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।
ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥ १ ॥

तं दृष्ट्वा सशरं चापमुद्यम्य खरनिःस्वनम् ।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ २ ॥

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।
यत्र रामो महाबाहुरेको धुन्वन् स्थितो धनुः ॥ ३ ॥

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।
नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ ४ ॥

स तेषां यातुधानानां मध्ये रथगतः खरः ।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥

ततः शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ ६ ॥

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ७ ॥

मुद्गरैः पट्‍टिशैः शूलैः प्रासैः खड्गैः परश्वधैः ।
राक्षसाः समरे रामं निजघ्नू रोषतत्पराः ॥ ८ ॥

ते बलाहकसङ्काशा महानादा महौजसः ।
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥ ९ ॥

गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः ।
ते रामे शरवर्षाणि व्यसृजन्रक्षसां गणाः ॥ १० ॥

शैलेन्द्रमिव धाराभिर्वर्षमाणाः बलाहकाः ।
स तैः परिवृतो घोरै राघवो रक्षसां गणैः ॥ ११ ॥

[* तिथिष्विव महादेवो वृतः पारिषदां गणैः । *]
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ।
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ १२ ॥

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ १३ ॥

स विद्धः क्षतजैर्दिग्धः सर्वगात्रेषु राघवः ।
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ॥ १४ ॥

विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ।
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥ १५ ॥

ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः ।
ससर्ज विशिखान्बाणान् शतशोऽथ सहस्रशः ॥ १६ ॥

दुरवारान् दुर्विषहान् कालदण्डोपमान्रणे ।
मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ॥ १७ ॥

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।
आददू रक्षसां प्राणान् पाशाः कालकृता इव ॥ १८ ॥

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ।
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ १९ ॥

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।
विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः ॥ २० ॥

[* ते रथो साङ्गदान् बाहून् सहस्ताभरणान् भुजान् । *]
धनूंषि च ध्वजाग्राणि वर्माणि च शिरांसि च ।
बहून् सहस्ताभरणान् ऊरून् करिकरोपमान् ॥ २१ ॥

चिच्छेद रामः समरे शतशोऽथ सहस्रशः ।
हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन् ॥ २२ ॥

गजांश्च सगजारोहान् सहयान् सादिनस्तथा ।
पदातीन् समरे हत्वा ह्यनयद्यमसादनम् ॥ २३ ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
भीमवार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ २४ ॥

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ २५ ॥

केचिद्भीमबलाः शूराः शूलान् खड्गान् परश्वधान् ।
रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ २६ ॥

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः ।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २७ ॥

ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः ।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ २८ ॥

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।
खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥ २९ ॥

तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः ।
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥ ३० ॥

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३१ ॥

शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः ।
सृजन्तः शरवर्षाणि शस्त्रवर्षाणि सम्युगे ॥ ३२ ॥

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥ ३३ ॥

रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ।
ते समन्तादभिक्रुद्धा राघवं पुनरभ्ययुः ॥ ३४ ॥

तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।
राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ॥ ३५ ॥

स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।
सम्योजयत गान्धर्वं राक्षसेषु महाबलः ॥ ३६ ॥

ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ।
सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥ ३७ ॥

नाददानं शरान् घोरान्न मुञ्चन्त शिलीमुखान् ।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३८ ॥

शरान्धकारमाकाशमावृणोत्सदिवाकरम् ।
बभूवावस्थितो रामः प्रवमन्निव तान् शरान् ॥ ३९ ॥

युगपत्पतमानैश्च युगपच्च हतैर्भ्रुशम् ।
युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् ॥ ४० ॥

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ ४१ ॥

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ।
ऊरुभिर्जानुभिश्छिन्नैर्नानारूपविभूषणैः ॥ ४२ ॥

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः ।
चामरैर्व्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥ ४३ ॥

रामस्य बाणाभिहतैर्विचित्रैः शूलपट्‍टिशैः ।
खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ ४४ ॥

चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः ।
विच्छिन्नैः समरे भूमिर्विकीर्णाऽभूद्भयङ्करा ॥ ४५ ॥

तान् दृष्ट्वा निहतान् सङ्ख्ये राक्षसान् परमातुरान् ।
न तत्र सहितुं शक्ता रामं परपुरञ्जयम् ॥ ४६ ॥

[* बलावशेषं तु निरस्तमाहवे
खराधिकं राक्षसदुर्बलं बलम् ।
जघान रामः स्थिरधर्मपौरुषो
धनुर्बलैरप्रतिवारणैः शरैः ॥ *]

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥


www.sanatanadharm.com